|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.4. अध्यायः 004
Mahabharata - Bhishma Parva - Chapter Topics
व्यासे गते संजयेन धृतराष्ट्रंप्रति भूमिगुणानुवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
वैशम्पायन उवाच। 6-4-0x(3963)(38779)
एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत॥ 6-4-1(38780)
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।
संजयं संशितात्मानमपृच्छद्रतर्षभ ॥ 6-4-2(38781)
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः ।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥ 6-4-3(38782)
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् ।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥ 6-4-4(38783)
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ॥ 6-4-5(38784)
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ 6-4-6(38785)
देशानां च परीमाणं नगराणां च संजय ।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥ 6-4-7(38786)
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ 6-4-8(38787)
संजय उवाच। 6-4-9x(3964)
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ 6-4-9(38788)
द्विविधानीह भूतानि चराणि स्थावराणि च।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ 6-4-10(38789)
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः।
जरायुजानां प्रवरा मानवाः पशवश्च ये ॥ 6-4-11(38790)
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश ।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ 6-4-12(38791)
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् ।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥ 6-4-13(38792)
उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 6-4-14(38793)
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता ॥ 6-4-15(38794)
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति॥ 6-4-16(38795)
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥ 6-4-17(38796)
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥ 6-4-18(38797)
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥ 6-4-19(38798)
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति ।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥ 6-4-20(38799)
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ ॥ 6-4-21(38800)
इति श्रीमन्महाभारते उद्योगपर्वणि जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-4-4 नवा नैव । यमक्षयं यमलोकम् ॥ 6-4-10 त्रसानां जंगमानां योनिरुत्पत्तिस्थानम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|